वांछित मन्त्र चुनें

अ॒हमे॒ताञ्छाश्व॑सतो॒ द्वाद्वेन्द्रं॒ ये वज्रं॑ यु॒धयेऽकृ॑ण्वत । आ॒ह्वय॑मानाँ॒ अव॒ हन्म॑नाहनं दृ॒ळ्हा वद॒न्नन॑मस्युर्नम॒स्विन॑: ॥

अंग्रेज़ी लिप्यंतरण

aham etāñ chāśvasato dvā-dvendraṁ ye vajraṁ yudhaye kṛṇvata | āhvayamānām̐ ava hanmanāhanaṁ dṛḻhā vadann anamasyur namasvinaḥ ||

पद पाठ

अ॒हम् । ए॒तान् । शाश्व॑सतः । द्वाऽद्वा॑ । इन्द्र॑म् । ये । वज्र॑म् । यु॒धये॑ । अकृ॑ण्वत । आ॒ऽह्वय॑मानान् । अव॑ । हन्म॑ना । अ॒ह॒न॒म् । दृ॒ळ्हा । वद॑न् । अन॑मस्युः । न॒म॒स्विनः॑ ॥ १०.४८.६

ऋग्वेद » मण्डल:10» सूक्त:48» मन्त्र:6 | अष्टक:8» अध्याय:1» वर्ग:6» मन्त्र:1 | मण्डल:10» अनुवाक:4» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एतान्-शाश्वसतः) इन बार-बार या भली-भाँति प्राण लेते हुओं को (ये-इन्द्रं द्वा द्वा वज्रं युधये अकृण्वत) जो मुझ ऐश्वर्यवान् के प्रति शुष्क-आर्द्र दो-दो धाराओंवाले वज्र को युद्ध के लिए सम्पन्न करते हैं-फेंकते हैं (आह्वयमानान्) उन आह्वान करनेवाले विरोधियों (नमस्विनः) वज्रवालों को (अनमस्युः) वज्र को अपेक्षित न करते हुए भी (दृढा वदन्) दृढ़ वचनों को घोषित करता हुआ (हन्मना-अहम्-अव-अहनम्) मैं हनन बल रखनेवाला नष्ट करता हूँ ॥६॥
भावार्थभाषाः - वज्रधारी नास्तिक प्राणीजनों को वज्र की अपेक्षा न रखता भी हननशक्ति से सम्पन्न परमात्मा नष्ट कर देता है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एतान्-शाश्वसतः) इमान् पुनः पुनर्भृशं वा प्राणतः प्राणं गृह्णतः (ये-इन्द्रं द्वा द्वा वज्रं युधये-अकृण्वत) ये मामिन्द्रं प्रति द्वौ द्वौ मिलित्वा यच्छुष्कार्द्रभावको वज्रो भवति तं युद्धाय कुर्वन्ति सम्पादयन्ति क्षिपन्ति (आह्वयमानान्) तानाह्वयतो विरोधिनः (नमस्विनः) वज्रवतः “नम वज्रनाम” [निघ० २।२०] (अनमस्युः) वज्रमनिच्छुरपि (दृढा वदन्) दृढानि वचनानि वदन् घोषयन् (हन्मना अहम्-अव-अहनम्) हननबलेनाहं हन्मि ॥६॥